Tuesday, September 29, 2020

सप्तमः पाठः

भारतजनताऽहम्  

लेखक परिचयः -:

गीतस्य लेखकः महान् आधुनिक कविकुलशिरोमणिः डॉ. रमा कान्त शुल्क महोदयः। महोदयः आधुनिककविषु श्रेष्ठः। डॉ. रमा कान्त शुल्क महोदयः स्वस्य अद्भुत लेखनेन राष्ट्रपति सम्मानेन पद्म श्री सम्मानेन च सम्मानिताः। महोदयस्य कविता पाठः न केवलं भारतीयआकाशवाण्याम् अपितु  दूरदर्शनादि अन्य विविध कविसम्मेलनेषु मॉरीशस-अमेरिका-इटली-यू के इत्यादयः च देशेषु अपि अपि प्रसारितः भवति। 

महोदयस्य रचनाः  -: 

  • भाति मे भारतम्
  • जय भारतभूमे
  • भाँति मौरिशसम्
  • भारतजनताऽहम् 
  • सर्वशुक्ला
  • सर्वशुक्लोत्तरा
  • आशाद्विशती
  • मम जननी
  • राजधानी रचनाः च महोदयस्य प्रमुखाः रचनाः। 
पाठ परिचयः  -:
डॉ रमाकान्त शुक्ल महोदयन रचिते गीते वयं भारतीयाः कीदृशाः स्मः?  अस्माकं काः काः विशेषताः ? कस्मात् कारणात् वयं जगति प्रसिद्धाः ?  इत्यादीनां विषयाणां वर्णनम् अस्ति। गीते भारतीय जनतायाः विविध कौशलानां, विविध रूचीनां  वर्णनं  विद्यते। 


गीत वाचनम् -: अधोलिखित यूट्यूब संकेत माध्यमेन गीतस्य वाचनं कर्तुं शक्यते। 👇

https://youtu.be/J5XioaSfknY


प्रथमः श्लोकः  -: 

अभिमान धना विनयोपेता, शालीना भारतजनताऽहम्। 

कुलिशादपि कठिना, कुसुमादपि सुकुमारा भारतजनताऽहम्।। 

अन्वयः -:

अहं अभिमान धना, विनयोपेता, शालीना भारत जनता अस्मि। अहं कुलीशात् अपि कठिना, कुसुमात् अपि सुकुमारा भारत जनता अस्मि। 

भावार्थः -: 

अहं स्वाभिमान युक्ता, विनम्र युक्ता, शालीन स्वभाव युक्ता भारतस्य जनता अस्मि। अहं वज्रात् अपि कठिना, पुष्पात् अपि सुकुमारा भारतस्य जनता अस्मि। 

हिन्द्यर्थः  -: 

मैं स्वाभिमान से युक्त, विनम्र, अच्छे स्वभाव वाली भारत की जनता हूँ। मैं वज्र से भी कठोर  (क्रोधित होने पर) और पुष्प से भी सुकोमल (दया, स्नेह आदि गुणों के कारण) भारत की जनता हूँ। 


अन्य श्लोकानाम् अध्ययनाय अधोलिखित यूट्यूब संकेतं द्रष्टुं शक्यते। 👇

https://youtu.be/wjCIFz9zLgY


धन्यवादः।। 


विश्व मानसिक स्वास्थ्य दिवस

 विश्व मानसिक स्वास्थ्य दिवस  स्वरचित कहानी -:  भोली सी,  प्यारी सी,  एक गुड़िया। नाम- रीना,  मीरा,  हेमा, नेहा।  आप में से कोई भी।  12 - 13...